वांछित मन्त्र चुनें

आहं पि॒तॄन्त्सु॑वि॒दत्राँ॑ अवित्सि॒ नपा॑तं च वि॒क्रम॑णं च॒ विष्णो॑: । ब॒र्हि॒षदो॒ ये स्व॒धया॑ सु॒तस्य॒ भज॑न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ॥

अंग्रेज़ी लिप्यंतरण

āham pitṝn suvidatrām̐ avitsi napātaṁ ca vikramaṇaṁ ca viṣṇoḥ | barhiṣado ye svadhayā sutasya bhajanta pitvas ta ihāgamiṣṭhāḥ ||

पद पाठ

आ । अ॒हम् । पि॒तॄन् । सु॒ऽवि॒दत्रा॑न् । अ॒वि॒त्सि॒ । नपा॑तम् । च॒ । वि॒ऽक्रम॑णम् । च॒ । विष्णोः॑ । ब॒र्हि॒ऽसदः॑ । ये । स्व॒धया॑ । सु॒तस्य॑ । भज॑न्त । पि॒त्वः । ते । इ॒ह । आऽग॑मिष्ठाः ॥ १०.१५.३

ऋग्वेद » मण्डल:10» सूक्त:15» मन्त्र:3 | अष्टक:7» अध्याय:6» वर्ग:17» मन्त्र:3 | मण्डल:10» अनुवाक:1» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सुविदत्रान् पितॄन्-आ-अवित्सि विष्णोः नपातं विक्रमणं च) मैं शुभविद्यासम्पन्न पालक जनों, विद्वानों तथा यज्ञ की प्रसाररूप व्याप्ति को भली प्रकार जानता हूँ (ये बहिर्षदः सुतस्य पित्वः स्वधया भजन्त ते-इह आगमिष्ठाः) इस यज्ञावसर पर तुम सब विद्वानो ! शुभासन पर विराजित हुए स्वेच्छा से भोजन खाओ, अतएव यहाँ आकर विराजो ॥३॥
भावार्थभाषाः - यज्ञक्रिया का फल बहुत दूर तक व्यापता है और उस यज्ञ का अनुष्ठान परिचित शुभविद्यासम्पन्न विद्वानों के द्वारा करना चाहिये। पुनः उन विद्वानों को उनकी इच्छानुसार भोजन खिलाना चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अहं सुविदत्रान् पितॄन्-आ-अवित्सि-विष्णोः-नपातं विक्रमणं च) अहं कल्याणविद्यान् पालकजनान् तथा विष्णोर्यज्ञस्य स्थिरत्वं व्याप्तित्वं विक्रमणं चान्तरिक्षे सञ्चारविशेषं चावित्सि-आस्मरामि मनसि धारयामि “यज्ञो वै विष्णुः” [श०१३।१।८।८] अवित्सि ‘विद् विचारणे’ लुङि रूपम्। (ये बर्हिषदः सुतस्य पित्वः स्वधया भजन्त ते-इह-आगमिष्ठाः) ये बर्हिषदो यज्ञासने सीदन्ति ते सुतस्य सम्पादितस्य पक्वस्य पित्वोऽन्नस्य “पितुरन्ननाम” [नि०२।७] स्वधया स्वधारणया स्वेच्छया भजन्त भजत सेवेध्वम्, ‘अत्र नकारोपजनशछान्दसः’। अत एव यूयमत्रागमिष्ठाः-आगच्छत। स्वधा-स्व-धारणा स्वं दधाति स्वधा “आतोऽनुपसर्गे कः” [अष्टा०३।२।३] स्त्रियां स्वधा ॥३॥